Verses

भावभक्तिवर्णनBhāvabhaktivarṇanam

॥ द्वादशः परिच्छेदः ॥

1

भक्त्यास्तु प्रेमरूपिण्या बीजं भावः प्रकीर्तितः ।

सुतरां भक्तिशास्त्रेषु पञ्चभावाः प्रकीर्तिताः ॥

2

वात्सल्यसख्यमाधुर्यदास्यशान्तास्तु ते हरौ ।

भावा भक्तैः क्रियन्ते हि तत्तद्बुद्ध्यनुसारतः ॥

3

स्मृत्वात्मानं यशोदां च स्वसुतं केशवं तथा ।

कृष्णानुभूतिः क्रियते वात्सल्यमिदमेव हि ॥

4

आत्मानमपि गोपीषु गोपबालेषु वा स्मरन् ।

मैत्रीं कुर्यान्नन्दपुत्रे सख्यमेतत् प्रकीर्तितम् ॥

5

आत्मानं राधिकां मत्वा सदा कृष्णैकभावनाम् ।

कृष्णे कुर्यात् कान्तभावं माधुर्यमिति कीर्तितम् ॥

6

श्रीकृष्णदासमात्मानं स्मरेत्तं प्रभुमात्मनः ।

स एव रक्षक इति दास्यभावोऽयमीरितः ॥

7

वासुदेवः सर्वमिति ध्यायतां तु महात्मनाम् ।

आत्मरत्यविरोधेन भावः शान्त इतीर्यते ॥

8

यस्मिन् भावे तु रमते चित्तं तेनैव भावयेत् ।

रसिकानां भावुकानां भव्यः कृष्णो रसप्रदः ॥

9

सर्वैर्भावैर्भावनीयः पूर्णः श्रीकृष्ण एव हि ।

तस्मात् स एव रसिको रसदो रसनायकः ॥

10

शृङ्गारहास्यबीभत्सवीररौद्रादयो रसाः ।

रसिकैर्नवधा प्रोक्ताः चित्तोल्लासकराः शुभाः ॥

11

ते प्रयुक्ता रसा मर्त्ये नाप्नुवन्ति हि पूर्णताम् ।

विरसत्वादपात्रत्वाद्रसनीयो न मानवः ॥

12

किन्तु प्रयुक्ता गोविन्दे ते रसा रसनायके ।

पूर्णाखण्डरसप्राप्त्या प्राप्नुवन्ति हि पूर्णताम् ॥

13

तस्मादेतै रसैर्नित्यं भावनीयो व्रजाधिपः ।

राजन्ते नैव कविभिर्मर्त्येषु कलिता रसाः ॥

14

येन केन प्रकारेण श्रीकृष्णे तन्मयो भवेत् ।

विरोधेनापि संस्मृत्य बहवस्तद्रतिं गताः ॥

॥ द्वादशः परिच्छेदः समाप्तः ॥
Ch.11ChaptersCh.13