Verses

गोपीभाववर्णनGopībhāvavarṇanam

॥ एकादशः परिच्छेदः ॥

1

गोपीभावं प्रवक्ष्यामि गोविन्दस्य प्रसादतः ।

स्मरन्ति भावुका नित्यं यं भावं रसवर्धनम् ॥

2

शुद्धप्रेमस्वरूपिण्या भक्तेः श्रीराधिकापतेः ।

गोपिका एव गुरवः कृष्णप्रेमपरायणाः ॥

3

न कामलीला गोपीनां चरितं प्रेमलक्षणम् ।

कृष्णप्रसादाज्जानीयात् गुह्यं तत्परमं क्वचित् ॥

4

नश्यन्ति कामा हृदये कृष्णप्रेमरसोदये ।

विरोधः सम्भवे नित्यं सर्वथा प्रेमकामयोः ॥

5

न तस्य साधनं चान्यत् भावस्य प्रेमरूपिणः ।

कोमलं हृदयं यस्य तस्य भावः प्रजायते ॥

6

येषां न स्याद्रसिकता मूर्खतास्ति तथा हृदि ।

तेषां गोपीप्रेमभावः दुर्लभाद्दुर्लभो भवेत् ॥

7

गोपीभावः प्रेमरूपः कामस्तत्र न दृश्यते ।

तस्माद्धि त्यक्तकामानां तस्मिन्निष्ठा परा भवेत् ॥

8

न शक्नुयाद्वेत्तुमपि गोपीभावं रसप्रदम् ।

कृष्णप्रसादलेशेन क्वापि पात्रे हि दृश्यते ॥

9

विशेषो नात्र संप्रोक्तो दीक्षामन्त्रादिकर्मणाम् ।

लोकवेदविमुक्तानामधिकारोऽत्र कीर्तितः ॥

10

अहं कृष्णस्य दासीति ध्यानं दीक्षेति गीयते ।

सदा श्रीकृष्णनामानि स्मरेन्मन्त्रः प्रकीर्तितः ॥

11

सौलभ्यं सर्वभूतेषु नियमः परिकीर्तितः ।

भूतेषु वर्जयेद्वैरं निषेधोऽयं प्रकीर्तितः ॥

12

इदं श्रीकृष्णकैङ्कर्यमिति कर्म समाचरेत् ।

आचारोऽयं महान्धर्मो भावुकानां विधीयते ॥

13

तथैवार्थान्तराभावात् श्रमोऽप्यत्र न विद्यते ।

केवलं हृदयेनैव भावयेत् कृष्णकेलिकाः ॥

14

प्रमाणं साधुभिः सेव्यं श्रीमद्भागवतं परम् ।

सर्वेषां शास्त्रपुञ्जानां सारभूतं प्रकीर्त्यते ॥

15

स्वावासं यमुनातीरं सदा बृन्दावनं स्मरेत् ।

मैत्रीं कृत्वा वैष्णवेषु गोपगोपीः स्मरेच्च तान् ॥

16

आत्मानमेवं श्रीकृष्णदासीं गोपीं स्मरेत्सदा ।

लोकवेदातीतधर्मां कृष्णप्रेमपरायणाम् ॥

17

सदा श्रीराधिकाकृष्णकैङ्कर्यमनुचिन्तयेत् ।

स्वसखीभिर्गोपिकाभिरात्मानमपि भावयेत् ॥

18

बृन्दावने सदा कृष्णो रमते राधया सह ।

तत्र गोप्यस्तु सुभगा दास्यं कुर्वन्ति नित्यदा ॥

19

क्वचिद्देशविशेषोऽस्तु बृन्दारण्यं महीतले ।

बृन्दावनं तु सर्वत्र चिन्मयं किल दृश्यते ॥

20

नृणां कालविशेषेण कृष्णलीलोपसंहृता ।

सन्ततं भावुकानान्तु कृष्णलीलाऽभिवर्तते ॥

21

बृन्दावने महाराज्ञी राधिका रसनायिका ।

तस्यास्तु सेवया नित्यं कृष्णभक्तिः प्रजायते ॥

22

तस्माद्धि गोपिका नित्यं राधिका श्रीपदाब्जयोः ।

संप्राप्य परमां भक्तिं सेवां कुर्वन्ति वै हरेः ॥

23

राज्ञी च नः सदा राधा राजा श्रीराधिकेश्वरः ।

व्रजभूमिः राजधानी वयं दास्यस्तु गोपिकाः ॥

24

अस्माकं तु प्रियतमः सत्यं श्रीकृष्ण एव हि ।

तस्य श्रीपदसेवायै वयं नान्यार्थभुक्तये ॥

25

एवं सदा चिन्तयन्त्यः दास्यं कुर्वन्ति गोपिकाः ।

अहमप्यत्र दास्यस्मि कृष्णप्रेमपरायणा ॥

॥ एकादशः परिच्छेदः समाप्तः ॥
Ch.10ChaptersCh.12