Verses

वैष्णवलक्षणवर्णनVaiṣṇavalakṣaṇavarṇanam

॥ दशमः परिच्छेदः ॥

1

अथ वक्ष्यामि गोविन्ददासानां लक्षणान्यहम् ।

सम्पन्नं लक्षणैरेतैः जानीयाद्वैष्णवोत्तमम् ॥

2

कण्ठे च तुलसीमाला ललाटे श्वेतमृत्तिका ।

प्रसन्नता मुखे चैवमङ्गेषु पुलकादयः ॥

3

सदा श्रीकृष्ण कृष्णेति मधुराक्षरकीर्तनम् ।

श्रीमद्भागवतालापः सततं प्रियभाषणम् ॥

4

यदृच्छालाभसन्तोषः समता स्तोत्रनिन्दयोः ।

सहिष्णुता च तापेषु करुणा दुःखितेष्वपि ॥

5

विरोधिषूपकारश्च महनीयेषु दीनता ।

अपमानेऽपि सन्तोषः सम्माने दुःखमेव च ॥

6

नीचोत्तमाभेदबुद्धिः सर्वत्र भगवत्स्मृतिः ।

मातृभक्तिः परस्त्रीषु वैराग्यं काञ्चनादिषु ॥

7

प्रतीक्षा च महत्सङ्गेषूपेक्षा विषयिष्वपि ।

अहिंसा सर्वभूतेषु श्रद्धा सज्जनभाषिते ॥

8

दृश्यन्ते लक्षणान्येवं कृष्णदासेषु सर्वदा ।

न तेषां दोष एकोऽपि स्मरतां श्रीहरिं सदा ॥

9

भक्तस्य हृदयं वक्तुं नागेशोऽपि न शक्नुयात् ।

यस्य हृत्कमले साक्षात्कृष्णो भृङ्गायितः प्रभुः ॥

10

अशक्तोऽहं वर्णयितुं भक्तमानसलक्षणम् ।

भक्ता एव हि जानन्ति भक्तानां हृदयं मृदु ॥

11

अपवर्गमुखान् भोगान् सर्वान् सन्त्यज्य दूरतः ।

अनन्यभक्त्या गोविन्दं भजन्ति किल साधवः ॥

12

निष्किञ्चनवरेण्यानां तेषां माहात्म्यमुत्तमम् ।

न शक्नुयाद्वर्णयितुं वाणीपतिरपि स्वयम् ॥

13

तस्माद् ब्रह्मादिसेव्योऽपि भगवान् भक्तवत्सलः ।

तेषां पदरजो धर्तुमनुगच्छति तान् सदा ॥

14

ब्रह्मादिभिर्लोकपूज्यैः पूजितस्य श्रियः पतेः ।

महत्पादरजः सत्यं परमं दैवतं खलु ॥

15

किं दुर्लभं मुकुन्दस्य दासानां तु महात्मनाम् ।

तृणायितं जगत्सर्वं येषां गोविन्दसेवया ॥

16

तस्मात्संपूजयेद्भक्तान् कृष्णस्य परमात्मनः ।

येषां प्रसादलेशेन कृष्णभक्तिः प्रजायते ॥

17

आराधनानां सर्वेषां श्रीकृष्णाराधनं परम् ।

तस्मात्परतरं प्रोक्तं तद्भक्तानां समर्चनम् ॥

18

को नु प्रयासो लोकेऽस्मिन्नर्चने तु महात्मनाम् ।

तेषां तु नित्यतृप्तानां गोविन्दस्यानुसेवया ॥

॥ दशमः परिच्छेदः समाप्तः ॥
Ch.09ChaptersCh.11