Verses

पराभक्तिवर्णनParabhaktivarṇanam

॥ अष्टमः परिच्छेदः ॥

1

प्रवक्ष्यामि परां भक्तिम् अनिर्वाच्यां प्रयत्नतः ।

यां लब्ध्वा पूर्णकामश्च नित्यतृप्तो भवेत्पुमान् ॥

2

अनुरक्तिः परा कृष्णे भक्तिरित्यभिधीयते ।

शुद्धरूपा च रहिता नियमैर्लोकवेदयोः ॥

3

कामस्वरूपः संसारे दुःखदो राग उच्यते ।

प्रेमस्वरूपः श्रीकृṣ्णे सुखदो राग उच्यते ॥

4

अप्राकृतोऽयं रागस्तु चिन्मयोऽचिन्त्य एव हि ।

इमं संप्राप्य गोविन्दे गुणातीतो भवेत्पुमान् ॥

5

एषानुरक्तिर्गोविन्दे पराऽऽनन्दप्रदायिनी ।

अनुरक्तिस्तु संसारे ह्यपरा दुःखदायिनी ॥

6

परमप्रेमरूपा सा भक्तिरानन्दरूपिणी ।

कृष्णप्रसादाज्जानाति तस्या भक्तेस्तु वैभवम् ॥

7

भक्तिं लब्ध्वा परां कृष्णे न पुनर्मृत्युमाप्नुयात् ।

तस्मादमृतरूपा सा मधुरा दोषवर्जिता ॥

8

तुरीयातीतनिष्ठा सा चैतन्यरसरूपिणी ।

यां प्राप्य भक्तो हृदये हरिं पश्यति सर्वदा ॥

9

उत्तमा सांख्ययोगाभ्यां सेविता मुक्तिसिद्धिभिः ।

यं सा प्राप्नोति सानन्दं कृष्णस्तमनुधावति ॥

10

अनन्यभक्तिर्गोविन्दे पुरुषार्थोत्तमोत्तमा ।

यां प्राप्य भावुका लोके न हि वाञ्छन्ति किञ्चन ॥

11

न भजेत्कृष्णपादाब्जं दुःखनाशाय भावुकः ।

समदुःखसुखो भक्तो देहधर्मं न चिन्तयेत् ॥

12

न च जिज्ञासया भक्तो भजेत्कृष्णपदाम्बुजम् ।

निर्मलज्ञानलाभान्ते परा भक्तिर्हि जायते ॥

13

तस्माद्भक्तस्तु भक्त्यर्थं भजेत्कृष्णपदाम्बुजम् ।

भक्तिस्त्वगाधगम्भीरा ह्यनन्तानन्दरूपिणी ॥

14

कृष्णानुस्मरणादेव द्रवता मृदुचेतसा ।

सन्धारयन्नश्रुकलां कीर्तयेद्गद्गदाक्षरः ॥

15

ततो विवर्णवदनो भक्तस्तु पुलकाङ्कितः ।

स्वेदस्निग्धः क्वचित्स्तब्धो कृष्ण कृṣ्णेति कम्पते ॥

16

विनष्टबाह्यप्रज्ञश्च मूर्च्छितस्तन्मयो भवेत् ।

श्रुत्वा स्मृत्वाऽप

ि गोविन्दं सद्यस्तद्गतमानसः ॥

17

उन्मत्तवल्लोकबाह्यः क्वचिद्रोदिति रौति च ।

क्वचिन्नृत्यति कृष्णेति हसन्विलपति क्वचित् ॥

18

उच्चैर्गायति गोविन्दं क्वचिन्नमति वै जनम् ।

निरन्तरं स्मरन्कृष्णं तं सर्वत्रानुपश्यति ॥

19

प्रेमप्रवाहं हृदये संभूतं रोद्धुमक्षमः ।

कृष्ण कृष्णेति विलपन् त्यक्तसर्वक्रियो भवेत् ॥

20

वसन्तं हृदये पश्यन्नात्मस्थं मधुसूदनम् ।

तस्मिन्नेवोपरमति विषये न रमेत सः ॥

21

आनन्दं परमात्मानं आत्मस्थं समुपेत्य सः ।

निरपेक्षोऽन्यविषयेष्वात्मारामो भवेत्सदा ॥

22

भक्तस्य निरपेक्षस्य कर्तव्यं नेह किञ्चन ।

तस्माद्भक्तो लोकवेदव्यापारेभ्यो विमुच्यते ॥

23

कृष्णस्वरूपं सर्वत्र भक्तानां पश्यतां सदा ।

प्रियोऽयमन्योऽयमिति भेदो न स्याद्धि भावजः ॥

24

यस्य गोविन्दपादाब्जे भक्तिर्भवति नैष्ठिकी ।

तस्य नान्यत्तु भोक्तव्यं तस्मात्तृप्तो भवेत्सदा ॥

25

सर्वदा वर्तते भक्तिर्हृदि गङ्गाप्रवाहवत् ।

निरुत्साहो भवेद्भक्तस्तस्मात्सर्वेषु कर्मसु ॥

26

कण्ठावरोधरोमाञ्चस्तम्भकम्पादयस्तथा ।

आविर्भवेयुर्युगपद्भक्तस्य च पृथक् पृथक् ॥

27

उन्मत्तवल्लोकबाह्यः क्वचिद्रोदिति रौति च ।

क्वचिन्नृत्यति कृष्णेति हसन्विलपति क्वचित् ॥

28

उन्मादस्तु सदा लोके पुत्रदारधनादिषु ।

आसक्तस्य मनोभ्रान्त्या जायते दुःखदायकः ॥

29

सदा श्रीकृष्णमाधुर्यरसास्वादनतन्मयः ।

उन्मत्तवेषो भक्तस्तु परमानन्दरूपवान् ॥

॥ अष्टमः परिच्छेदः समाप्तः ॥
Ch.07ChaptersCh.09