Verses

मन्त्रवर्णनMantravarṇanam

॥ षष्ठः परिच्छेदः ॥

1

मन्त्रं वक्ष्यामि कृष्णस्य जपतां मङ्गलप्रदम् ।

यस्य स्मरणमात्रेण सर्वदा सुलभो हरिः ॥

2

जयपूर्वञ्च श्रीपूर्वं राधेकृष्णेति कीर्तयेत् ।

अयमेव परो मन्त्रः प्रेमोत्कर्षरसप्रदः ॥

3

राधे कृष्णेति सततं कीर्तयेत् चतुरक्षरम् ।

किमन्यैः साधनैर्लोके नियमान्तरसंयुतैः ॥

4

शिक्षयन्ती शुकं राधा कराब्जदलसंस्थितम् ।

कृष्णेति मधुरं नाम प्राप्नोति परमं सुखम् ॥

5

राधे राधेति सततं वेणुं वादयते हरिः ।

तन्नादमुग्धा मुनयोऽप्यनुगच्छन्ति माधवम् ॥

6

राधेकृष्णेति मधुरं सदा गायन्ति गोपिकाः ।

तस्मात्तासां पदरजो वाञ्छन्त्यजमुखाः सुराः ॥

7

एतस्मान्न परो मन्त्रस्त्रिषु लोकेषु विद्यते ।

तस्मादुच्चैः सुमधुरं राधेकृष्णेति कीर्तयेत् ॥

8

अपवित्रः पवित्रो वा श्रद्धयाऽश्रद्धयापि वा ।

त्यक्त्वा लज्जां मुक्तकण्ठो राधेकृष्णेति कीर्तयेत् ॥

9

न देशकालनियमो नोपदेशो गुरुष्वपि ।

सर्वत्र सर्वदा मर्त्यो राधेकृष्णेति कीर्तयेत् ॥

10

सर्वपापप्रशमनं पावनानाञ्च पावनम् ।

मङ्गलं मङ्गलानाञ्च राधेकृष्णेति कीर्तनम् ॥

11

हरेर्नाममयी मूर्तिः राधेकृष्णेति सर्वदा ।

यस्य नृत्यति जिह्वाग्रे स वै भागवतोत्तमः ॥

12

अहर्निशं कीर्तयेद्यो राधेकृष्णेति सुस्वरम् ।

स एव भगवान् कृष्णः साक्षाद् भुवि विराजते ॥

13

आलोड्य सर्वशास्त्राणि दृष्टो मन्त्रोऽयमुत्तमः ।

राधेकृष्णेति मुनिभिर्मन्त्राणां सारदर्शिभिः ॥

14

तस्मान्नित्यं व्यासपुत्रो राधेकृष्णेति कीर्तयन् ।

नैष्ठिकीं परमां शान्तिं प्राप्नोत्यानन्दरूपिणीम् ॥

15

वर्णाश्रमादिधर्मेषु विनष्टेषु कलौ युगे ।

एष एव परो धर्मो राधेकृष्णेति कीर्तनम् ॥

16

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

राधेकृष्णेति सततं कीर्तनान् न गतिः परा ॥

॥ षष्ठः परिच्छेदः समाप्तः ॥
Ch.05ChaptersCh.07