Verses

श्री कृष्णस्वरूपवर्णनŚrī Kṛṣṇasvarūpavarṇanam

॥ प्रथमः परिच्छेदः ॥

1

शुद्धप्रेमस्वरूपेण सर्वतो मधुरं सदा ।

राधामुकुन्दयुगलं शरण्यं शरणं मम ॥

2

कृष्णप्रेमरसस्वादकुशलास्त्यक्तलौकिकाः ।

ब्रह्मादिभिः सेव्यमाना वल्लवीः प्रणमाम्यहम् ॥

3

नारदादीन् नमस्कृत्य वैष्णवान् लोकपूजितान् ।

वक्तुमिच्छामि बालोऽपि कृष्णभक्तिरसोदयम् ॥

4

नमस्कृत्य गुरून् सर्वान् कृष्णप्रेमपरायणान् ।

प्रचोदितं तथा वक्ष्ये युगलच्छविना हृदि ॥

5

पूर्णब्रह्मैव युगलस्वरूपं दोषवर्जितम् ।

अप्राकृतत्वान्नित्यञ्च चिन्मयञ्च भवेत्तथा ॥

6

नास्ति कृष्णात्परं दैवं सच्चिदानन्दलक्षणम् ।

राधिका ह्लादिनी शक्तिस्तस्यानन्दस्वरूपिणी ॥

7

सत्त्वादिगुणसम्पन्ना अन्याः सर्वाश्च देवताः ।

कृष्णस्तु निर्गुणं ब्रह्म वस्तुतो दोषवर्जितम् ॥

8

अत्र निर्गुणशब्दस्य नार्थो हि जडलक्षणः ।

चिन्मयं दोषरहितं सत्त्वादिगुणवर्जितम् ॥

9

तर्को बुद्धिप्रमाणो हि भौतिकार्थस्त्वनिश्चयः ।

तस्मात्तर्कान्न जानीयादप्रमेयं हरिं नरः ॥

10

जानीयादनुभूत्यैव समाधिस्थस्तु पण्डितः ।

अप्राकृतं चाप्रमेयं स्वरूपं चिन्मयं हरेः ॥

11

अद्य कृष्णस्य वक्ष्यामि स्वरूपं ध्यानमङ्गलम् ।

यस्य स्मरणमात्रेण परं सौख्यं हि जायते ॥

12

क्वणत्कनकमञ्जीरमण्डितश्रीपदाम्बुजम् ।

पीताम्बरं वैजयन्तीवनमालाविभूषणम् ॥

13

हारकङ्कणकेयूरकुण्डलाद्यभिमण्डितम् ।

राधापीनकुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम् ॥

14

कुटिलालकसंयुक्तं केकिबर्हावतंसकम् ।

गोपीमनोहरं मेघश्यामलं कोमलाधरम् ॥

15

चन्द्रकान्ताननं चारु नलिनायतलोचनम् ।

त्रिजगन्मोहनं देवं त्रिभङ्गीललिताकृतिम् ॥

16

मुरलीमण्डितकरं मुनीनामपि मोहनम् ।

मुकुन्दं सर्वदा ध्यायेन्मन्दहासातिसुन्दरम् ॥

17

सकृत्स्मरणमात्रेण परमानन्ददायकम् ।

कृष्णस्य चिन्मयं रूपं सर्वदा हृदि भावयेत् ॥

18

नित्यं निरामयं ज्योतिः श्यामलं दोषवर्जितम् ।

चिन्तयेद्व्रजनाथस्य स्वरूपमतिसुन्दरम् ॥

॥ प्रथमः परिच्छेदः समाप्तः ॥
ChaptersCh.02